|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.139. अध्यायः 139
Mahabharata - Vana Parva - Chapter Topics
द्वाररक्षकशूद्रेण निवेदितपुत्रमरणेन भरद्वाजेन रैभ्यस्यापि ज्येष्ठसुतेन हननरूपशापदानम् ॥ 1 ॥ पुत्रमरणदुःखितेन भरद्वाजेन तद्देहदहनपूर्वकमग्नौ प्रवेशः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-139-0x(2217)(21191)
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्।
समित्कलापमादाय प्रविवेश स्वमाश्रमम् ॥ 3-139-1(21192)
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठिन्ति पावकाः।
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाऽग्नयः ॥ 3-139-2(21193)
वैकृतंत्वग्निहोत्रे स लक्षयित्वा महातपाः।
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥ 3-139-3(21194)
किंनु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्।
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ॥ 3-139-4(21195)
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः।
एतदाचक्ष्व मे शीघ्रं न हि शुद्ध्यति मे मनः ॥ 3-139-5(21196)
शूद्र उवाच। 3-139-6x(2218)
रैभ्यं यातो नूनमयं पुत्रस्ते मन्दचेतनः।
तथाहि निहतः शेते राक्षसेन महात्मना ॥ 3-139-6(21197)
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा।
अग्न्यगारं प्रतिद्वारि मया दोर्भ्यां निवारितः ॥ 3-139-7(21198)
ततः स विहताशोऽत्रजलकामोशुचिर्ध्रुवम्।
निहतः सोऽतिवेगेन शूलहस्तेन रक्षसा ॥ 3-139-8(21199)
लोमश उवाच। 3-139-8x(2219)
भरद्वाजस्तु तच्छ्रुत्वा शूद्रस्य विप्रियं महत्।
गतासुं पुत्रमादाय विललाप सुदुःखितः ॥ 3-139-9(21200)
भरद्वाज उवाच। 3-139-10x(2220)
रब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः।
द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति ॥ 3-139-10(21201)
तथा कल्याणशीलस्त्वं ब्राह्मणेषुमहात्मसु।
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ॥ 3-139-11(21202)
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्।
गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥ 3-139-12(21203)
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम्।
गतवानेव कोपस्य वशं परमदुर्मतिः ॥ 3-139-13(21204)
पुत्रशोकमनुप्राप्त एष रैभ्यस्य कर्मणा।
त्यक्ष्यामि त्वामृतेपुत्र प्राणानिष्टतमान्भुवि ॥ 3-139-14(21205)
यथाऽहं पुत्रशोकेन देहं त्यक्ष्यामि किल्विषी।
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥ 3-139-15(21206)
सुखिनो वै नरा येषां जाया पुत्रो न विद्यते।
ये पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥ 3-139-16(21207)
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः।
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥ 3-139-17(21208)
परासुश्च सुतो दृष्टः शप्तश्चैष्टः सखा मया।
ईदृशीमापदं कोत्र द्वितीयोऽनुविष्यति ॥ 3-139-18(21209)
लोमश उवाच। 3-139-19x(2221)
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम्।
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥ 3-139-19(21210)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-139-1 आह्निकं स्वाध्यायं प्रत्यहं कर्तव्यं ब्रह्मयज्ञम् ॥ 3-139-2 हतपुत्रत्वेन आशौचयुक्तत्वात् ॥ 3-139-5 शुद्ध्यति निःसंदेहं भवति ॥ 3-139-7 अग्न्यगारं प्रविष्टस् रक्षोभयं न भवेदिति ॥ 3-139-9 शूद्रस्य शूद्रकृतं विप्रियं पुत्रनिरोधेन कृतम् ॥ 3-139-15 किल्विषी शोकाकान्तः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|